Sukta 5.66
तदृतं पृथिवि बृहच्छ्रवएष ऋषीणाम् । ज्रयसानावरं पृथ्वति क्षरन्ति यामभिः ॥
तदृ॒तं पृ॑थिवि बृ॒हच्छ्र॑वए॒ष ऋषी॑णाम् । ज्र॒य॒सा॒नावरं॑ पृ॒थ्वति॑ क्षरन्ति॒ याम॑भिः ॥
tád ṛtáṃ pṛthivi bṛhác chrava eṣé ṛ́ṣīṇām | jrayasānā́varaṃ pṛthv áti kṣaranti yā́mabhiḥ ||
That is the ṛta, O Earth: the vast fame and utterance that the seers pursue. Moving on their swift courses, they pour it out broadly, overflowing the wide spaces by their goings.
तत् । ऋ॒तम् । पृ॒थि॒वि॒ । बृ॒हत् । श्र॒वः॒ऽए॒षे । ऋषी॑णाम् । ज्र॒य॒सा॒नौ । अर॑म् । पृ॒थु । अति॑ । क्ष॒र॒न्ति॒ । याम॑ऽभिः ॥तत् । ऋतम् । पृथिवि । बृहत् । श्रवःएषे । ऋषीणाम् । ज्रयसानौ । अरम् । पृथु । अति । क्षरन्ति । यामभिः ॥tat | ṛtam | pṛthivi | bṛhat | śravaḥ-eṣe | ṛṣīṇām | jrayasānau | aram | pṛthu | ati | kṣaranti | yāma-bhiḥ