Sukta 5.66
अधा हि काव्या युवं दक्षस्य पूर्भिरद्भुता । नि केतुना जनानां चिकेथे पूतदक्षसा ॥
अधा॒ हि काव्या॑ यु॒वं दक्ष॑स्य पू॒र्भिर॑द्भुता । नि के॒तुना॒ जना॑नां चि॒केथे॑ पूतदक्षसा ॥
ádhā hí kā́vyā yuváṃ dákṣasya pū́rbhir adbhutā́ | ní ketúnā jánānāṃ ciket́he pūtadákṣasā ||
Then indeed, O wonder-working seers, you two by the strongholds of Dakṣa build the marvel. By your luminous sign you awaken the peoples to knowledge, O you whose discerning power is purified.
अध॑ । हि । काव्या॑ । यु॒वम् । दक्ष॑स्य । पूः॒ऽभिः । अ॒द्भु॒ता॒ । नि । के॒तुना॑ । जना॑नाम् । चि॒केथे॒ इति॑ । पू॒त॒ऽद॒क्ष॒सा॒ ॥अध । हि । काव्या । युवम् । दक्षस्य । पूःभिः । अद्भुता । नि । केतुना । जनानाम् । चिकेथे इति । पूतदक्षसा ॥adha | hi | kāvyā | yuvam | dakṣasya | pūḥ-bhiḥ | adbhutā | ni | ketunā | janānām | ciketheiti | pūta-dakṣasā