Sukta 5.66
आ यद्वामीयचक्षसा मित्र वयं च सूरयः । व्यचिष्ठे बहुपाय्ये यतेमहि स्वराज्ये ॥
आ यद्वा॑मीयचक्षसा॒ मित्र॑ व॒यं च॑ सू॒रय॑: । व्यचि॑ष्ठे बहु॒पाय्ये॒ यते॑महि स्व॒राज्ये॑ ॥
ā́ yád vām ī́yacákṣasā mítrā vayáṃ ca sū́rayaḥ | vyáciṣṭhe bahupā́yye yátemahi svarā́jye ||
When by your far-seeing vision, O Mitra and Varuṇa, we and the illumined ones come near, then in your wide and many-protecting power we strive toward self-rule.
आ । यत् । वा॒म् । ई॒य॒ऽच॒क्ष॒सा॒ । मित्रा॑ । व॒यम् । च॒ । सू॒रयः॑ । व्यचि॑ष्ठे । ब॒हु॒ऽपाय्ये॑ । यते॑महि । स्व॒ऽराज्ये॑ ॥आ । यत् । वाम् । ईयचक्षसा । मित्रा । वयम् । च । सूरयः । व्यचिष्ठे । बहुपाय्ये । यतेमहि । स्वराज्ये ॥ā | yat | vām | īya-cakṣasā | mitrā | vayam | ca | sūrayaḥ | vyaciṣṭhe | bahu-pāyye | yatemahi | sva-rājye