Sukta 5.66
ता वामेषे रथानामुर्वीं गव्यूतिमेषाम् । रातहव्यस्य सुष्टुतिं दधृक्स्तोमैर्मनामहे ॥
ता वा॒मेषे॒ रथा॑नामु॒र्वीं गव्यू॑तिमेषाम् । रा॒तह॑व्यस्य सुष्टु॒तिं द॒धृक्स्तोमै॑र्मनामहे ॥
tā́ vām éṣe rathā́nām urvī́ṃ gavyū́tim eṣām | rā́tahavyasya suṣṭutíṃ dadhṛ́k stomáir manāmahe ||
To you two belong these rushes of the chariots and their wide pasture of rays. For the giver of the offering we fashion a good praise, holding it firmly with our hymns in the mind.
ता । वा॒म् । एषे॑ । रथा॑नाम् । उ॒र्वीम् । गव्यू॑तिम् । ए॒षा॒म् । रा॒तऽह॑व्यस्य । सु॒ऽस्तु॒तिम् । द॒धृक् । स्तोमैः॑ । म॒ना॒म॒हे॒ ॥ता । वाम् । एषे । रथानाम् । उर्वीम् । गव्यूतिम् । एषाम् । रातहव्यस्य । सुस्तुतिम् । दधृक् । स्तोमैः । मनामहे ॥tā | vām | eṣe | rathānām | urvīm | gavyūtim | eṣām | rāta-havyasya | su-stutim | dadhṛk | stomaiḥ | manāmahe