Sukta 5.66
ता हि क्षत्रमविह्रुतं सम्यगसुर्यमाशाते । अध व्रतेव मानुषं स्वर्ण धायि दर्शतम् ॥
ता हि क्ष॒त्रमवि॑ह्रुतं स॒म्यग॑सु॒र्य१॒॑माशा॑ते । अध॑ व्र॒तेव॒ मानु॑षं॒ स्व१॒॑र्ण धा॑यि दर्श॒तम् ॥
tā́ hí kṣatrám avíhrutaṃ samyág asuryàm ā́śāte | ádha vratéva mā́nuṣaṃ svàrṇa dhā́yi darśatám ||
For those two uphold an unbetrayed sovereignty, rightly they attain the asuric power (lordly mastery). Then, as by a steadfast law, the human is made to carry the beautiful light of heaven within him.
ता । हि । क्ष॒त्रम् । अवि॑ऽह्रुतम् । स॒म्यक् । अ॒सु॒र्य॑म् । आशा॑ते॒ इति॑ । अध॑ । व्र॒ताऽइ॑व । मानु॑षम् । स्वः॑ । न । धा॒यि॒ । द॒र्श॒तम् ॥ता । हि । क्षत्रम् । अविह्रुतम् । सम्यक् । असुर्यम् । आशाते इति । अध । व्रताइव । मानुषम् । स्वः । न । धायि । दर्शतम् ॥tā | hi | kṣatram | avi-hrutam | samyak | asuryam | āśāteiti | adha | vratāiva | mānuṣam | svaḥ | na | dhāyi | darśatam