Sukta 5.65
वयं मित्रस्यावसि स्याम सप्रथस्तमे । अनेहसस्त्वोतयः सत्रा वरुणशेषसः ॥
व॒यं मि॒त्रस्याव॑सि॒ स्याम॑ स॒प्रथ॑स्तमे । अ॒ने॒हस॒स्त्वोत॑यः स॒त्रा वरु॑णशेषसः ॥
vayáṃ mitrásyā́vasi syā́ma sapráthatame | anehásaḥ tvótayaḥ satrā́ váruṇaśeṣasaḥ ||
May we abide in the protecting grace of Mitra, in the widest and most expansive help. Unwearying, may your succours be with us always, O you who leave nothing undone in Varuṇa’s guardianship.
व॒यम् । मि॒त्रस्य॑ । अव॑सि । स्याम॑ । स॒प्रथः॑ऽतमे । अ॒ने॒हसः॑ । त्वाऽऊ॑तयः । स॒त्रा । वरु॑णऽशेषसः ॥वयम् । मित्रस्य । अवसि । स्याम । सप्रथःतमे । अनेहसः । त्वाऊतयः । सत्रा । वरुणशेषसः ॥vayam | mitrasya | avasi | syāma | saprathaḥ-tame | anehasaḥ | tvāūtayaḥ | satrā | varuṇa-śeṣasaḥ