Sukta 5.65
मित्रो अंहोश्चिदादुरु क्षयाय गातुं वनते । मित्रस्य हि प्रतूर्वतः सुमतिरस्ति विधतः ॥
मि॒त्रो अं॒होश्चि॒दादु॒रु क्षया॑य गा॒तुं व॑नते । मि॒त्रस्य॒ हि प्र॒तूर्व॑तः सुम॒तिरस्ति॑ विध॒तः ॥
mitró aṃhóś cid ā́d urú kṣáyāya gātúṃ vanate | mitrásya hí pratū́rvataḥ sumatír ásti vidhatáḥ ||
Mitra, even from distress, wins a wide passage for the dwelling; for Mitra, overcoming opposition, has the good mind for the one who serves and orders the work.
मि॒त्रः । अं॒होः । चि॒त् । आत् । उ॒रु । क्षया॑य । गा॒तुम् । व॒न॒ते॒ । मि॒त्रस्य॑ । हि । प्र॒ऽतूर्व॑तः । सु॒ऽम॒तिः । अस्ति॑ । वि॒ध॒तः ॥मित्रः । अंहोः । चित् । आत् । उरु । क्षयाय । गातुम् । वनते । मित्रस्य । हि । प्रतूर्वतः । सुमतिः । अस्ति । विधतः ॥mitraḥ | aṃhoḥ | cit | āt | uru | kṣayāya | gātum | vanate | mitrasya | hi | pra-tūvartaḥ | su-matiḥ | asti | vidhataḥ