Sukta 5.65
युवं मित्रेमं जनं यतथः सं च नयथः । मा मघोनः परि ख्यतं मो अस्माकमृषीणां गोपीथे न उरुष्यतम् ॥
यु॒वं मि॑त्रे॒मं जनं॒ यत॑थ॒: सं च॑ नयथः । मा म॒घोन॒: परि॑ ख्यतं॒ मो अ॒स्माक॒मृषी॑णां गोपी॒थे न॑ उरुष्यतम् ॥
yuváṃ mitrā́ imaṃ jánam yátathaḥ sáṃ ca nayathaḥ | mā maghónaḥ pári khyatam mó asmā́kam ṛ́ṣīṇāṃ gopīthé na uruṣyatam ||
You two, O Mitra and Varuṇa, guide this people and lead them into a united movement. Do not stand apart from the givers of the plenitude; guard us—our seers—in the cow-pen of protection, and make us wide and safe.
यु॒वम् । मि॒त्रा॒ । इ॒मम् । जन॑म् । यत॑थः । सम् । च॒ । न॒य॒थः॒ । मा । म॒घोनः॑ । परि॑ । ख्य॒त॒म् । मो इति॑ । अ॒स्माक॑म् । ऋषी॑णाम् । गो॒ऽपी॒थे । नः॒ । उ॒रु॒ष्य॒त॒म् ॥युवम् । मित्रा । इमम् । जनम् । यतथः । सम् । च । नयथः । मा । मघोनः । परि । ख्यतम् । मो इति । अस्माकम् । ऋषीणाम् । गोपीथे । नः । उरुष्यतम् ॥yuvam | mitrā | imam | janam | yatathaḥ | sam | ca | nayathaḥ | mā | maghonaḥ | par i | khyatam | mo iti | asmākam | ṛṣīṇām | go--pīthe | naḥ | uruṣyatam