Sukta 5.65
ता हि श्रेष्ठवर्चसा राजाना दीर्घश्रुत्तमा । ता सत्पती ऋतावृध ऋतावाना जनेजने ॥
ता हि श्रेष्ठ॑वर्चसा॒ राजा॑ना दीर्घ॒श्रुत्त॑मा । ता सत्प॑ती ऋता॒वृध॑ ऋ॒तावा॑ना॒ जने॑जने ॥
tā hí śréṣṭha-varcasā rājānā dīrghaśrút-tamā | tā satpátī ṛtā-vṛ́dhā ṛtá-vānā jáne-jane ||
For those two are kings of the most excellent radiance, of far-reaching hearing; those two are lords of the true, increasers of the cosmic order, possessors of ṛta in every people and in every being.
ता । हि । श्रेष्ठ॑ऽवर्चसा । राजा॑ना । दी॒र्घ॒श्रुत्ऽत॑मा । ता । सत्प॑ती॒ इति॒ सत्ऽप॑ती । ऋ॒त॒ऽवृधा॑ । ऋ॒तऽवा॑ना । जने॑ऽजने ॥ता । हि । श्रेष्ठवर्चसा । राजाना । दीर्घश्रुत्तमा । ता । सत्पती इति सत्पती । ऋतवृधा । ऋतवाना । जनेजने ॥tā | hi | śreṣṭha-varcasā | rājānā | dīrghaśrut-tamā | tā | satpatī itisat-patī | ṛta-vṛdhā | ṛta-vānā | jane--jane