Sukta 5.65
यश्चिकेत स सुक्रतुर्देवत्रा स ब्रवीतु नः । वरुणो यस्य दर्शतो मित्रो वा वनते गिरः ॥
यश्चि॒केत॒ स सु॒क्रतु॑र्देव॒त्रा स ब्र॑वीतु नः । वरु॑णो॒ यस्य॑ दर्श॒तो मि॒त्रो वा॒ वन॑ते॒ गिर॑: ॥
yáś cikéta sá sukrátur devatrā́ sá bravītu naḥ | váruṇo yásya darśató mitró vā vánate gíraḥ ||
Whoever truly knows, let that one of bright will speak to us in the godward way: he whose vision is Varuṇa, or Mitra who wins our inspired words.
यः । चि॒केत॑ । सः । सु॒ऽक्रतुः॑ । दे॒व॒ऽत्रा । सः । ब्र॒वी॒तु॒ । नः॒ । वरु॑णः । यस्य॑ । द॒र्श॒तः । मि॒त्रः । वा॒ । वन॑ते । गिरः॑ ॥यः । चिकेत । सः । सुक्रतुः । देवत्रा । सः । ब्रवीतु । नः । वरुणः । यस्य । दर्शतः । मित्रः । वा । वनते । गिरः ॥yaḥ | ciketa | saḥ | su-kratuḥ | deva-trā | saḥ | bravītu | naḥ | varuṇaḥ | yasya | darśataḥ | mitraḥ | vā | vanate | giraḥ