Sukta 5.64
युवाभ्यां मित्रावरुणोपमं धेयामृचा । यद्ध क्षये मघोनां स्तोतॄणां च स्पूर्धसे ॥
यु॒वाभ्यां॑ मित्रावरुणोप॒मं धे॑यामृ॒चा । यद्ध॒ क्षये॑ म॒घोनां॑ स्तोतॄ॒णां च॑ स्पू॒र्धसे॑ ॥
yuvā́bhyāṃ mitrāvaruṇopamáṃ dheyām ṛcā́ | yád dha kṣáye maghónāṃ stotṝṇā́ṃ ca spū́rdhase ||
To you two, Mitra and Varuṇa, may I set a hymn of fitting measure; for in the dwelling you strive on behalf of the bounteous and of the singers.
यु॒वाभ्या॑म् । मि॒त्रा॒व॒रु॒णा॒ । उ॒प॒ऽमम् । धे॒या॒म् । ऋ॒चा । यत् । ह॒ । क्षये॑ । म॒घोना॑म् । स्तो॒तॄ॒णाम् । च॒ । स्पू॒र्धसे॑ ॥युवाभ्याम् । मित्रावरुणा । उपमम् । धेयाम् । ऋचा । यत् । ह । क्षये । मघोनाम् । स्तोतॄणाम् । च । स्पूर्धसे ॥yuvābhyām | mitrāvaruṇā | upa-mam | dheyām | ṛcā | yat | ha | kṣaye | maghonām | stotṝṇām | ca | spūrdhase