Sukta 5.64
आ नो मित्र सुदीतिभिर्वरुणश्च सधस्थ आ । स्वे क्षये मघोनां सखीनां च वृधसे ॥
आ नो॑ मित्र सुदी॒तिभि॒र्वरु॑णश्च स॒धस्थ॒ आ । स्वे क्षये॑ म॒घोनां॒ सखी॑नां च वृ॒धसे॑ ॥
ā́ no mitra sudītíbhir váruṇaś ca sadhástha ā́ | své kṣáye maghónāṃ sákhīnām ca vṛ́dhase ||
Come to us, O Mitra, with your bright inspirations, and Varuṇa as well, to the common seat; in your own dwelling may you increase the bounteous and the comrades of the path.
आ । नः॒ । मि॒त्र॒ । सु॒दी॒तिऽभिः॑ । वरु॑णः । च॒ । स॒धऽस्थे॑ । आ । स्वे । क्षये॑ । म॒घोना॑म् । सखी॑नाम् । च॒ । वृ॒धसे॑ ॥आ । नः । मित्र । सुदीतिभिः । वरुणः । च । सधस्थे । आ । स्वे । क्षये । मघोनाम् । सखीनाम् । च । वृधसे ॥ā | naḥ | mitra | sudīti-bhiḥ | varuṇaḥ | ca | sadha-sthe | ā | sve | kṣaye | maghonām | sakhīnām | ca | vṛdhase