Sukta 5.64
यन्नूनमश्यां गतिं मित्रस्य यायां पथा । अस्य प्रियस्य शर्मण्यहिंसानस्य सश्चिरे ॥
यन्नू॒नम॒श्यां गतिं॑ मि॒त्रस्य॑ यायां प॒था । अस्य॑ प्रि॒यस्य॒ शर्म॒ण्यहिं॑सानस्य सश्चिरे ॥
yán nūnám aśyā́ṃ gátiṃ mitrásya yāyā́ṃ pathā́ | asyá priyásya śármaṇy áhiṃsānasya saścire ||
May we now attain the going and the path of Mitra, and move in the shelter of this beloved Power who does not wound; so may we accompany his peace.
यत् । नू॒नम् । अ॒श्याम् । गति॑म् । मि॒त्रस्य॑ । या॒या॒म् । प॒था । अस्य॑ । प्रि॒यस्य॑ । शर्म॑णि । अहिं॑सानस्य । स॒श्चि॒रे॒ ॥यत् । नूनम् । अश्याम् । गतिम् । मित्रस्य । यायाम् । पथा । अस्य । प्रियस्य । शर्मणि । अहिंसानस्य । सश्चिरे ॥yat | nūnam | aśyām | gatim | mitrasya | yāyām | pathā | asya | priyasya | śarmaṇ i | ahiṃsānasya | saścire