Sukta 5.64
ता बाहवा सुचेतुना प्र यन्तमस्मा अर्चते । शेवं हि जार्यं वां विश्वासु क्षासु जोगुवे ॥
ता बा॒हवा॑ सुचे॒तुना॒ प्र य॑न्तमस्मा॒ अर्च॑ते । शेवं॒ हि जा॒र्यं॑ वां॒ विश्वा॑सु॒ क्षासु॒ जोगु॑वे ॥
tā bā́havā sucetúnā prá yántam asmā́ arcáte | śévaṃ hí jā́ryaṃ vāṃ víśvāsu kṣā́su jóguve ||
Those two mighty Powers, moving forward with luminous discernment, are hymned by him. For your enduring benediction is a sure help to the seeker in all abodes and fields of life.
ता । बा॒हवा॑ । सु॒ऽचे॒तुना॑ । प्र । य॒न्त॒म् । अ॒स्मै॒ । अर्च॑ते । शेव॑म् । हि । जा॒र्य॑म् । वा॒म् । विश्वा॑सु । क्षासु॑ । जोगु॑वे ॥ता । बाहवा । सुचेतुना । प्र । यन्तम् । अस्मै । अर्चते । शेवम् । हि । जार्यम् । वाम् । विश्वासु । क्षासु । जोगुवे ॥tā | bāhavā | su-cetunā | pra | yantam | asmai | arcate | śevam | hi | jāryam | vām | vi śvāsu | kṣāsu | joguve