Sukta 5.62
हिरण्यरूपमुषसो व्युष्टावयःस्थूणमुदिता सूर्यस्य । आ रोहथो वरुण मित्र गर्तमतश्चक्षाथे अदितिं दितिं च ॥
हिर॑ण्यरूपमु॒षसो॒ व्यु॑ष्टा॒वय॑:स्थूण॒मुदि॑ता॒ सूर्य॑स्य । आ रो॑हथो वरुण मित्र॒ गर्त॒मत॑श्चक्षाथे॒ अदि॑तिं॒ दितिं॑ च ॥
híraṇya-rūpam uṣáso ví-uṣṭāv áyaḥ-sthūṇam úd-itā sū́ryasya | ā́ rohatho varuṇa mitra gártam átaś cakṣāthe áditiṃ dítiṃ ca ||
At the full outshining of Dawn, when the Sun has arisen, there stands revealed the golden Form and the firm pillar of strength. Then you ascend, O Varuṇa and Mitra, to the seat of vision; from there you behold both Aditi (the infinite wideness) and Diti (the division and limitation).
हिर॑ण्यऽरूपम् । उ॒षसः॑ । विऽउ॑ष्टौ । अयः॑ऽस्थूणम् । उत्ऽइ॑ता । सूर्य॑स्य । आ । रो॒ह॒थः॒ । व॒रु॒ण॒ । मि॒त्र॒ । गर्त॑म् । अतः॑ । च॒क्षा॒थे॒ इति॑ । अदि॑तिम् । दिति॑म् । च॒ ॥हिरण्यरूपम् । उषसः । विउष्टौ । अयःस्थूणम् । उत्इता । सूर्यस्य । आ । रोहथः । वरुण । मित्र । गर्तम् । अतः । चक्षाथे इति । अदितिम् । दितिम् । च ॥hiraṇya-rūpam | uṣasaḥ | vi-uṣṭau | ayaḥ-sthūṇam | ut-itā | sūryasya | ā | rohathaḥ | varuṇa | mitra | gartam | ataḥ | cakṣātheiti | aditim | ditim | ca