Sukta 5.62
अक्रविहस्ता सुकृते परस्पा यं त्रासाथे वरुणेळास्वन्तः । राजाना क्षत्रमहृणीयमाना सहस्रस्थूणं बिभृथः सह द्वौ ॥
अक्र॑विहस्ता सु॒कृते॑ पर॒स्पा यं त्रासा॑थे वरु॒णेळा॑स्व॒न्तः । राजा॑ना क्ष॒त्रमहृ॑णीयमाना स॒हस्र॑स्थूणं बिभृथः स॒ह द्वौ ॥
ákravi-hastā su-kṛ́te paráḥ-pā yáṃ trā́sāthe varuṇéḷās vantáḥ | rā́jānā kṣatrám áhṛṇīyamānā sahásra-sthūṇaṃ bibhṛthaḥ sahá dváu ||
With hands that do not wound, guardians of the good work, protectors from beyond, you two give safety—O Varuṇa with Ilā’s attendance. As kings, unoffended in your sovereignty, you uphold the thousand-pillared power: the vast structure of ordered rule within the being.
अक्र॑विऽहस्ता । सु॒ऽकृते॑ । प॒रः॒ऽपा । यम् । त्रासा॑थे । व॒रु॒णा॒ । इला॑सु । अ॒न्तरिति॑ । राजा॑ना । क्ष॒त्रम् । अहृ॑णीयमाना । स॒हस्र॑ऽस्थूणम् । बि॒भृ॒थः॒ । स॒ह । द्वौ ॥अक्रविहस्ता । सुकृते । परःपा । यम् । त्रासाथे । वरुणा । इलासु । अन्तरिति । राजाना । क्षत्रम् । अहृणीयमाना । सहस्रस्थूणम् । बिभृथः । सह । द्वौ ॥akravi-hastā | su-kṛte | paraḥ-pā | yam | trāsāthe | varuṇā | ilāsu | antariti | rājānā | kṣatram | ahṛṇīyamānā | sahasra-sthūṇam | bibhṛthaḥ | saha | dvau