Sukta 5.62
आ वामश्वासः सुयुजो वहन्तु यतरश्मय उप यन्त्वर्वाक् । घृतस्य निर्णिगनु वर्तते वामुप सिन्धवः प्रदिवि क्षरन्ति ॥
आ वा॒मश्वा॑सः सु॒युजो॑ वहन्तु य॒तर॑श्मय॒ उप॑ यन्त्व॒र्वाक् । घृ॒तस्य॑ नि॒र्णिगनु॑ वर्तते वा॒मुप॒ सिन्ध॑वः प्र॒दिवि॑ क्षरन्ति ॥
ā́ vāṃ áśvāsas su-yújo vahantu yatá-raśmaya úpa yantu arvā́k | ghṛtásya nirníg ánu vartate vā́m úpa síndhavaḥ pra-dívi kṣaranti ||
May your well-yoked horses carry you here; may the reins of right direction come near, moving toward us. The shining robe of ghee (clarified light) follows you; the rivers of abundance flow toward you, streaming forth in the higher heaven.
आ । वा॒म् । अश्वा॑सः । सु॒ऽयुजः॑ । व॒ह॒न्तु॒ । य॒तऽर॑श्मयः । उप॑ । य॒न्तु॒ । अ॒र्वाक् । घृ॒तस्य॑ । निः॒ऽनिक् । अनु॑ । व॒र्त॒ते॒ । वा॒म् । उप॑ । सिन्ध॑वः । प्र॒ऽदिवि॑ । क्ष॒र॒न्ति॒ ॥आ । वाम् । अश्वासः । सुयुजः । वहन्तु । यतरश्मयः । उप । यन्तु । अर्वाक् । घृतस्य । निःनिक् । अनु । वर्तते । वाम् । उप । सिन्धवः । प्रदिवि । क्षरन्ति ॥ā | vām | aśvāsaḥ | su-yujaḥ | vahantu | yata-raśmayaḥ | upa | yantu | arvāk | ghṛtasya | niḥ-nik | anu | vartate | vām | upa | sindhavaḥ | pra-divi | kṣarant i