Sukta 5.62
अधारयतं पृथिवीमुत द्यां मित्रराजाना वरुणा महोभिः । वर्धयतमोषधीः पिन्वतं गा अव वृष्टिं सृजतं जीरदानू ॥
अधा॑रयतं पृथि॒वीमु॒त द्यां मित्र॑राजाना वरुणा॒ महो॑भिः । व॒र्धय॑त॒मोष॑धी॒: पिन्व॑तं॒ गा अव॑ वृ॒ष्टिं सृ॑जतं जीरदानू ॥
adhā́rayataṃ pṛthivī́m utá dyā́ṃ mitrá-rājānā varuṇā́ máho-bhiḥ | vardháyataṃ óṣadhīḥ pínvataṃ gā́ áva vṛ́ṣṭiṃ sṛjataṃ jīradānū ||
You upheld Earth and Heaven, O royal Mitra and Varuṇa, by your vast powers. You increase the herbs, you swell the rays/cows of illumination; you release downward the rain—pouring the quick-giving energies that renew the being.
अधा॑रयतम् । पृ॒थि॒वीम् । उ॒त । द्याम् । मित्र॑ऽराजाना । व॒रु॒णा॒ । महः॑ऽभिः । व॒र्धय॑तम् । ओष॑धीः । पिन्व॑तम् । गाः । अव॑ । वृ॒ष्टि॑म् । सृ॒ज॒त॒म् । जी॒र॒दा॒नू॒ इति॑ जीरऽदानू ॥अधारयतम् । पृथिवीम् । उत । द्याम् । मित्रराजाना । वरुणा । महःभिः । वर्धयतम् । ओषधीः । पिन्वतम् । गाः । अव । वृष्टिम् । सृजतम् । जीरदानू इति जीरदानू ॥adhārayatam | pṛthivīm | uta | dyām | mitra-rājānā | varuṇā | mahaḥ-bhiḥ | vardhayatam | oṣadhīḥ | pinvatam | gāḥ | ava | vṛṣṭim | sṛjatam | jīradānūitijīra-dānū