Sukta 5.62
तत्सु वां मित्रावरुणा महित्वमीर्मा तस्थुषीरहभिर्दुदुह्रे । विश्वाः पिन्वथः स्वसरस्य धेना अनु वामेकः पविरा ववर्त ॥
तत्सु वां॑ मित्रावरुणा महि॒त्वमी॒र्मा त॒स्थुषी॒रह॑भिर्दुदुह्रे । विश्वा॑: पिन्वथ॒: स्वस॑रस्य॒ धेना॒ अनु॑ वा॒मेक॑: प॒विरा व॑वर्त ॥
tát su vāṃ mitrā́varuṇā mahi-tvám ī́rmā tasthuṣī́r áha-bhir duduhre | víśvāḥ pinvathaḥ svásarasya dhénā ánu vā́m ékaḥ pavír ā́ vavarta ||
This indeed is your greatness, O Mitra and Varuṇa: the streams that stand firm are milked out by the days. You fill all the milk-cows of the self-flowing fountain; following you, the single purifier turns and returns—sharpening the being toward Truth.
तत् । सु । वा॒म् । मि॒त्रा॒व॒रु॒णा॒ । म॒हि॒ऽत्वम् । ई॒र्मा । त॒स्थुषीः॑ । अह॑ऽभिः । दु॒दु॒ह्रे॒ । विश्वाः॑ । पि॒न्व॒थः॒ । स्वस॑रस्य । धेनाः॑ । अनु॑ । वा॒म् । एकः॑ । प॒विः । आ । व॒व॒र्त॒ ॥तत् । सु । वाम् । मित्रावरुणा । महित्वम् । ईर्मा । तस्थुषीः । अहभिः । दुदुह्रे । विश्वाः । पिन्वथः । स्वसरस्य । धेनाः । अनु । वाम् । एकः । पविः । आ । ववर्त ॥tat | su | vām | mitrāvaruṇā | mahi-tvam | īrmā | tasthuṣīḥ | aha-bhiḥ | duduhre | viśvāḥ | pinvathaḥ | svasarasya | dhenāḥ | anu | vām | ekaḥ | paviḥ | ā | vavatar