Sukta 5.62
ऋतेन ऋतमपिहितं ध्रुवं वां सूर्यस्य यत्र विमुचन्त्यश्वान् । दश शता सह तस्थुस्तदेकं देवानां श्रेष्ठं वपुषामपश्यम् ॥
ऋ॒तेन॑ ऋ॒तमपि॑हितं ध्रु॒वं वां॒ सूर्य॑स्य॒ यत्र॑ विमु॒चन्त्यश्वा॑न् । दश॑ श॒ता स॒ह त॑स्थु॒स्तदेकं॑ दे॒वानां॒ श्रेष्ठं॒ वपु॑षामपश्यम् ॥
ṛténa ṛtám ápi-hitaṃ dhrúváṃ vāṃ sū́ryasya yátra vi-mucánty áśvān | dáśa śatá sahá tasthús tád ékaṃ devā́nāṃ śréṣṭhaṃ vápūṣām ápaśyam ||
By Truth (ṛta) is Truth established, firm for you two, where the Sun releases his horses. Ten and a hundred stand together there; that One—most excellent among the forms of the gods—I beheld: the supreme harmony of ordered Light.
ऋ॒तेन॑ । ऋ॒तम् । अपि॑ऽहितम् । ध्रु॒वम् । वा॒म् । सूर्य॑स्य । यत्र॑ । वि॒ऽमु॒चन्ति॑ । अश्वा॑न् । दश॑ । श॒ता । स॒ह । त॒स्थुः॒ । तत् । एक॑म् । दे॒वाना॑म् । श्रेष्ठ॑म् । वपु॑षाम् । अ॒प॒श्य॒म् ॥ऋतेन । ऋतम् । अपिहितम् । ध्रुवम् । वाम् । सूर्यस्य । यत्र । विमुचन्ति । अश्वान् । दश । शता । सह । तस्थुः । तत् । एकम् । देवानाम् । श्रेष्ठम् । वपुषाम् । अपश्यम् ॥ṛtena | ṛtam | api-hitam | dhruvam | vām | sūryasya | yatra | vi-mucanti | aśvān | daśa | śatā | saha | tasthuḥ | tat | ekam | devānām | śreṣṭham | vapuṣām | apaśyam