Sukta 5.61
उत घा नेमो अस्तुतः पुमाँ इति ब्रुवे पणिः । स वैरदेय इत्समः ॥
उ॒त घा॒ नेमो॒ अस्तु॑त॒: पुमाँ॒ इति॑ ब्रुवे प॒णिः । स वैर॑देय॒ इत्स॒मः ॥
utá ghā́ némo ástutaḥ púmāṃ íti bruve paṇíḥ | sá váira-deya ít sámaḥ ||
And indeed the Paṇi declares: ‘He is only a man, unpraised and without reverence’; but in the very field of rivalry and giving he is their equal.
उ॒त । घ॒ । नेमः॑ । अस्तु॑तः । पुमा॑न् । इति॑ । ब्रु॒वे॒ । प॒णिः । सः । वैर॑ऽदेये । इत् । स॒मः ॥उत । घ । नेमः । अस्तुतः । पुमान् । इति । ब्रुवे । पणिः । सः । वैरदेये । इत् । समः ॥uta | gha | nemaḥ | astutaḥ | pumān | iti | bruve | paṇiḥ | saḥ | vaira-deye | it | samaḥ