Sukta 5.61
उत त्वा स्त्री शशीयसी पुंसो भवति वस्यसी । अदेवत्रादराधसः ॥
उ॒त त्वा॒ स्त्री शशी॑यसी पुं॒सो भ॑वति॒ वस्य॑सी । अदे॑वत्रादरा॒धस॑: ॥
uta tvā strī śaśīyasī puṃso bhavati vasyasī | adevatrād arādhasaḥ ||
And even a woman becomes more powerful than a man for you; (save/protect) from the godless and from the ill-achiever.
उ॒त । त्वा॒ । स्त्री । शशी॑यसी । पुं॒सः । भ॒व॒ति॒ । वस्य॑सी । अदे॑वऽत्रात् । अ॒रा॒धसः॑ ॥उत । त्वा । स्त्री । शशीयसी । पुंसः । भवति । वस्यसी । अदेवत्रात् । अराधसः ॥uta | tvā | strī | śaśīyasī | puṃsaḥ | bhavati | vasyasī | adeva-trāt | arādhasaḥ