Sukta 5.61
सनत्साश्व्यं पशुमुत गव्यं शतावयम् । श्यावाश्वस्तुताय या दोर्वीरायोपबर्बृहत् ॥
सन॒त्साश्व्यं॑ प॒शुमु॒त गव्यं॑ श॒ताव॑यम् । श्या॒वाश्व॑स्तुताय॒ या दोर्वी॒रायो॑प॒बर्बृ॑हत् ॥
sanat sāśvyaṃ paśum uta gavyaṃ śatāvayam | śyāvāśvastutāya yā dorvīrāyopabarbṛhat ||
She won for him the horse-rich, the cattle-wealth, and the hundredfold increase; she who, for Śyāvāśva’s praise, strengthened might for the hero of the arm.
सन॑त् । सा । अश्व्य॑म् । प॒शुम् । उ॒त । गव्य॑म् । श॒तऽअ॑वयम् । श्या॒वाश्व॑ऽस्तुताय । या । दोः । वी॒राय॑ । उ॒प॒ऽबर्बृ॑हत् ॥सनत् । सा । अश्व्यम् । पशुम् । उत । गव्यम् । शतअवयम् । श्यावाश्वस्तुताय । या । दोः । वीराय । उपबर्बृहत् ॥sanat | sā | aśvyam | paśum | uta | gavyam | śata-avayam | śyāvāśva-stutāya | yā | doḥ | vīrāya | upa-barbṛhat