Sukta 5.61
परा वीरास एतन मर्यासो भद्रजानयः । अग्नितपो यथासथ ॥
परा॑ वीरास एतन॒ मर्या॑सो॒ भद्र॑जानयः । अ॒ग्नि॒तपो॒ यथास॑थ ॥
parā vīrāsa etana maryāso bhadrajānayaḥ | agnitapo yathāsatha ||
Go forth, O heroes; advance, O young men of auspicious birth, as you are—like those whose tapas is Agni, burning with the fire-force.
परा॑ । वी॒रा॒सः॒ । इ॒त॒न॒ । मर्या॑सः । भद्र॑ऽजानयः । अ॒ग्नि॒ऽतपः॑ । यथा॑ । अस॑थ ॥परा । वीरासः । इतन । मर्यासः । भद्रजानयः । अग्नितपः । यथा । असथ ॥parā | vīrāsaḥ | itana | maryāsaḥ | bhadra-jānayaḥ | agni-tapaḥ | yathā | asatha