Sukta 5.61
जघने चोद एषां वि सक्थानि नरो यमुः । पुत्रकृथे न जनयः ॥
ज॒घने॒ चोद॑ एषां॒ वि स॒क्थानि॒ नरो॑ यमुः । पु॒त्र॒कृ॒थे न जन॑यः ॥
jaghane coda eṣāṃ vi sakthāni naro yamuḥ | putrakṛthe na janayaḥ ||
At their rear is the impulse; the heroes spread their thighs apart—like begetters for the making of a son.
ज॒घने॑ । चोदः॑ । ए॒षा॒म् । वि । स॒क्थानि॑ । नरः॑ । य॒मुः॒ । पु॒त्र॒ऽकृ॒थे । न । जन॑यः ॥जघने । चोदः । एषाम् । वि । सक्थानि । नरः । यमुः । पुत्रकृथे । न । जनयः ॥jaghane | codaḥ | eṣām | vi | sakthāni | naraḥ | yamuḥ | putra-kṛthe | na | janayaḥ