Sukta 5.61
को वेद नूनमेषां यत्रा मदन्ति धूतयः । ऋतजाता अरेपसः ॥
को वे॑द नू॒नमे॑षां॒ यत्रा॒ मद॑न्ति॒ धूत॑यः । ऋ॒तजा॑ता अरे॒पस॑: ॥
kó veda nūnám eṣā́ṃ yátrā mádanti dhūtáyaḥ | ṛtá-jātā arepásaḥ ||
Who now truly knows where these pure-shining ones take their ecstasy—born of the Truth, stainless in their being?
कः । वे॒द॒ । नू॒नम् । ए॒षा॒म् । यत्र॑ । मद॑न्ति । धूत॑यः । ऋ॒तऽजा॑ताः । अ॒रे॒पसः॑ ॥कः । वेद । नूनम् । एषाम् । यत्र । मदन्ति । धूतयः । ऋतजाताः । अरेपसः ॥kaḥ | veda | nūnam | eṣām | yatra | madanti | dhūtayaḥ | ṛta-jātāḥ | arepasaḥ