Sukta 5.61
युवा स मारुतो गणस्त्वेषरथो अनेद्यः । शुभंयावाप्रतिष्कुतः ॥
युवा॒ स मारु॑तो ग॒णस्त्वे॒षर॑थो॒ अने॑द्यः । शु॒भं॒यावाप्र॑तिष्कुतः ॥
yúvā sá mārúto gaṇás tvéṣa-ratho anédyaḥ | śubhám-yāvā́prati-skutaḥ ||
Young is that Marut host, with blazing chariots, faultless; moving in beauty, unrepulsed and unthwarted.
युवा॑ । सः । मारु॑तः । ग॒णः । त्वे॒षऽर॑थः । अने॑द्यः । शु॒भ॒म्ऽयावा॑ । अप्र॑तिऽस्कुतः ॥युवा । सः । मारुतः । गणः । त्वेषरथः । अनेद्यः । शुभम्यावा । अप्रतिस्कुतः ॥yuvā | saḥ | mārutaḥ | gaṇaḥ | tveṣa-rathaḥ | anedyaḥ | śubham-yāvā | aprati-skutaḥ