Sukta 5.61
येषां श्रियाधि रोदसी विभ्राजन्ते रथेष्वा । दिवि रुक्म इवोपरि ॥
येषां॑ श्रि॒याधि॒ रोद॑सी वि॒भ्राज॑न्ते॒ रथे॒ष्वा । दि॒वि रु॒क्म इ॑वो॒परि॑ ॥
yéṣāṃ śriyā́ ádhi ródasī ví-bhrājante rátheṣv ā́ | diví rukmá ivópari ||
They whose splendor shines over the two worlds, flashing upon their chariots—like a golden radiance set aloft in heaven.
येषा॑म् । श्रि॒या । अधि॑ । रोद॑सी॒ इति॑ । वि॒ऽभ्राज॑न्ते । रथे॑षु । आ । दि॒वि । रु॒क्मःऽइ॑व । उ॒परि॑ ॥येषाम् । श्रिया । अधि । रोदसी इति । विभ्राजन्ते । रथेषु । आ । दिवि । रुक्मःइव । उपरि ॥yeṣām | śriyā | adhi | rodasī iti | vi-bhrājante | ratheṣu | ā | divi | rukmaḥ-iva | upari