Sukta 5.57
गोमदश्वावद्रथवत्सुवीरं चन्द्रवद्राधो मरुतो ददा नः । प्रशस्तिं नः कृणुत रुद्रियासो भक्षीय वोऽवसो दैव्यस्य ॥
गोम॒दश्वा॑व॒द्रथ॑वत्सु॒वीरं॑ च॒न्द्रव॒द्राधो॑ मरुतो ददा नः । प्रश॑स्तिं नः कृणुत रुद्रियासो भक्षी॒य वोऽव॑सो॒ दैव्य॑स्य ॥
gómad áśvāvadráthavat suvī́raṃ candrávad rā́dho maruto dadā naḥ | práśastiṃ naḥ kṛṇuta rudriyāso bhakṣī́ya vo ’vásō daívyasya ||
Give us, O Maruts, a boon rich in light-cows, rich in swift energies, rich in ordered movements, rich in heroic sons—shining like the moon. Make for us a praiseworthy path, O Rudra-born ones, that we may partake of your divine protection.
गोऽम॑त् । अश्व॑ऽवत् । रथ॑ऽवत् । सु॒ऽवीर॑म् । च॒न्द्रऽव॑त् । राधः॑ । म॒रु॒तः॒ । द॒द॒ । नः॒ । प्रऽश॑स्तिम् । नः॒ । कृ॒णु॒त॒ । रु॒द्रि॒या॒सः॒ । भ॒क्षी॒य । वः॒ । अव॑सः । दैव्य॑स्य ॥गोमत् । अश्ववत् । रथवत् । सुवीरम् । चन्द्रवत् । राधः । मरुतः । दद । नः । प्रशस्तिम् । नः । कृणुत । रुद्रियासः । भक्षीय । वः । अवसः । दैव्यस्य ॥go--mat | aśva-vat | ratha-vat | su-vīram | candra-vat | rādhaḥ | marutaḥ | dada | naḥ | pra-śastim | naḥ | kṛṇuta | rudriyāsaḥ | bhakṣīya | vaḥ | avasaḥ | daivyasya