Sukta 5.57
हये नरो मरुतो मृळता नस्तुवीमघासो अमृता ऋतज्ञाः । सत्यश्रुतः कवयो युवानो बृहद्गिरयो बृहदुक्षमाणाः ॥
ह॒ये नरो॒ मरु॑तो मृ॒ळता॑ न॒स्तुवी॑मघासो॒ अमृ॑ता॒ ऋत॑ज्ञाः । सत्य॑श्रुत॒: कव॑यो॒ युवा॑नो॒ बृह॑द्गिरयो बृ॒हदु॒क्षमा॑णाः ॥
háye naro marúto mṛḷátā nas tuvī́-maghāso amṛ́tā ṛ́ta-jñāḥ | satyá-śrutaḥ kaváyo yúvāno bṛ́had-girayo bṛhád ukṣámāṇāḥ ||
Come, O heroes, O Maruts—be gracious to us, you of mighty giving, immortal, knowers of the Right. Hearers of the Truth, seers, ever-young, of vast song—pouring out the Vast (the bṛhat) in your increase.
ह॒ये । नरः॑ । मरु॑तः । मृ॒ळत॑ । नः॒ । तुवि॑ऽमघासः । अमृ॑ताः । ऋत॑ऽज्ञाः । सत्य॑ऽश्रुतः । कव॑यः । युवा॑नः । बृह॑त्ऽगिरयः । बृ॒हत् । उ॒क्षमा॑णाः ॥हये । नरः । मरुतः । मृळत । नः । तुविमघासः । अमृताः । ऋतज्ञाः । सत्यश्रुतः । कवयः । युवानः । बृहत्गिरयः । बृहत् । उक्षमाणाः ॥haye | naraḥ | marutaḥ | mṛḷata | naḥ | tuvi-maghāsaḥ | amṛtāḥ | ṛta-jñāḥ | satya-śrutaḥ | kavayaḥ | yuvānaḥ | bṛhat-girayaḥ | bṛhat | ukṣamāṇāḥ