HomeRig VedaMandala 5Sukta 57Mantra 6
Previous Mantra
Next Mantra

Mantra 6

Sukta 5.57

Rishi: Atri (Ātreya)
Devata: Maruts
Chandas: Triṣṭubh (likely)

ऋष्टयो वो मरुतो अंसयोरधि सह ओजो बाह्वोर्वो बलं हितम् । नृम्णा शीर्षस्वायुधा रथेषु वो विश्वा वः श्रीरधि तनूषु पिपिशे ॥

ऋ॒ष्टयो॑ वो मरुतो॒ अंस॑यो॒रधि॒ सह॒ ओजो॑ बा॒ह्वोर्वो॒ बलं॑ हि॒तम् । नृ॒म्णा शी॒र्षस्वायु॑धा॒ रथे॑षु वो॒ विश्वा॑ व॒: श्रीरधि॑ त॒नूषु॑ पिपिशे ॥

ṛṣṭáyo vo maruto áṃsayo r ádhi sáha ójo bāhvór vo bálaṃ hitám | nṛmnā́ śīrṣásv ā́yudhā rátheṣu vo víśvā vaḥ śrī́r ádhi tanū́ṣu pipiśe ||

Your spears, O Maruts, are upon your shoulders; might and energy are set in your arms, your strength is established. By heroic force your weapons are on your heads; on your chariots and in your bodies every splendor of yours is fashioned and increased.

ऋ॒ष्टयः॑ । वः॒ । म॒रु॒तः॒ । अंस॑योः । अधि॑ । सहः॑ । ओजः॑ । बा॒ह्वोः । वः॒ । बल॑म् । हि॒तम् । नृ॒म्णा । शी॒र्षऽसु॑ । आयु॑धा । रथे॑षु । वः॒ । विश्वा॑ । वः॒ । श्रीः । अधि॑ । त॒नूषु॑ । पि॒पि॒शे॒ ॥ऋष्टयः । वः । मरुतः । अंसयोः । अधि । सहः । ओजः । बाह्वोः । वः । बलम् । हितम् । नृम्णा । शीर्षसु । आयुधा । रथेषु । वः । विश्वा । वः । श्रीः । अधि । तनूषु । पिपिशे ॥ṛṣṭayaḥ | vaḥ | marutaḥ | aṃsayoḥ | adhi | sahaḥ | ojaḥ | bāhvoḥ | vaḥ | balam | hitam | nṛmṇā | śīrṣa-su | āyudhā | ratheṣu | vaḥ | viśvā | vaḥ | śrīḥ | adhi | tanūṣu | pipiśe