Sukta 5.57
पुरुद्रप्सा अञ्जिमन्तः सुदानवस्त्वेषसंदृशो अनवभ्रराधसः । सुजातासो जनुषा रुक्मवक्षसो दिवो अर्का अमृतं नाम भेजिरे ॥
पु॒रु॒द्र॒प्सा अ॑ञ्जि॒मन्त॑: सु॒दान॑वस्त्वे॒षसं॑दृशो अनव॒भ्ररा॑धसः । सु॒जा॒तासो॑ ज॒नुषा॑ रु॒क्मव॑क्षसो दि॒वो अ॒र्का अ॒मृतं॒ नाम॑ भेजिरे ॥
puru-drā́psā añjí-mantaḥ sudā́navas tveṣá-sandṛśo anavabhrá-rādhasaḥ | sujātā́so jánuṣā rukmá-vakṣaso divó arkā́ amṛ́taṃ nā́ma bhejire ||
Abundant in shining drops, brilliant in their adornment, generous, fierce to behold, with unclouded bounty; well-born by their very birth, with golden breasts—they are hymns of Heaven, and they have taken to themselves the immortal Name.
पु॒रु॒ऽद्र॒प्साः । अ॒ञ्जि॒ऽमन्तः॑ । सु॒ऽदान॑वः । त्वे॒षऽस॑न्दृशः । अ॒न॒व॒भ्रऽरा॑धसः । सु॒जा॒तासः॑ । ज॒नुषा॑ । रु॒क्मऽव॑क्षसः । दि॒वः । अ॒र्काः । अ॒मृत॑म् । नाम॑ । भे॒जि॒रे॒ ॥पुरुद्रप्साः । अञ्जिमन्तः । सुदानवः । त्वेषसन्दृशः । अनवभ्रराधसः । सुजातासः । जनुषा । रुक्मवक्षसः । दिवः । अर्काः । अमृतम् । नाम । भेजिरे ॥puru-drapsāḥ | añji-mantaḥ | su-dānavaḥ | tveṣa-sandṛśaḥ | anavabhra-rādhasaḥ | sujātāsaḥ | januṣā | rukma-vakṣasaḥ | divaḥ | arkāḥ | amṛtam | nāma | bhejire