Sukta 5.57
वातत्विषो मरुतो वर्षनिर्णिजो यमा इव सुसदृशः सुपेशसः । पिशङ्गाश्वा अरुणाश्वा अरेपसः प्रत्वक्षसो महिना द्यौरिवोरवः ॥
वात॑त्विषो म॒रुतो॑ व॒र्षनि॑र्णिजो य॒मा इ॑व॒ सुस॑दृशः सु॒पेश॑सः । पि॒शङ्गा॑श्वा अरु॒णाश्वा॑ अरे॒पस॒: प्रत्व॑क्षसो महि॒ना द्यौरि॑वो॒रव॑: ॥
vā́ta-tviṣo marúto várṣa-nirnijo yamā́ iva súsadṛśaḥ supéśasaḥ | piśáṅgāśvā aruṇā́śvā arepásaḥ prátvakṣaso mahinā́ dyáur ivóravaḥ ||
The Maruts are bright with wind’s force, clothed in rain; like twin powers they are harmonious and beautifully formed. With tawny steeds, with ruddy steeds, flawless, strong-limbed—by greatness they are wide-voiced like Heaven itself.
वात॑ऽत्विषः । म॒रुतः॑ । व॒र्षऽनि॑र्निजः । य॒माःऽइ॑व । सुऽस॑दृशः । सु॒ऽपेश॑सः । पि॒शङ्ग॑ऽअश्वाः । अ॒रु॒णऽअ॑स्वाः । अ॒रे॒पसः॑ । प्रऽत्व॑क्षसः । म॒हि॒ना । द्यौःऽइ॑व । उ॒रवः॑ ॥वातत्विषः । मरुतः । वर्षनिर्निजः । यमाःइव । सुसदृशः । सुपेशसः । पिशङ्गअश्वाः । अरुणअस्वाः । अरेपसः । प्रत्वक्षसः । महिना । द्यौःइव । उरवः ॥vāta-tviṣaḥ | marutaḥ | varṣa-nirnijaḥ | yamāḥ-iva | su-sadṛśaḥ | su-peśasaḥ | piśaṅga-aśvāḥ | aruṇa-asvāḥ | arepasaḥ | pra-tvakṣasaḥ | mahinā | dyauḥ-iva | uravaḥ