Sukta 5.57
धूनुथ द्यां पर्वतान्दाशुषे वसु नि वो वना जिहते यामनो भिया । कोपयथ पृथिवीं पृश्निमातरः शुभे यदुग्राः पृषतीरयुग्ध्वम् ॥
धू॒नु॒थ द्यां पर्व॑तान्दा॒शुषे॒ वसु॒ नि वो॒ वना॑ जिहते॒ याम॑नो भि॒या । को॒पय॑थ पृथि॒वीं पृ॑श्निमातरः शु॒भे यदु॑ग्रा॒: पृष॑ती॒रयु॑ग्ध्वम् ॥
dhū́nutha dyā́m párvatānd dāśúṣe vásu ní vo vánā jihate yā́manaḥ bhiyā́ | kopáyatha pṛthivī́m pṛ́śni-mātaraḥ śubhé yád ugrā́ḥ pṛ́ṣatīr áyugdhvam ||
You, the Maruts, shake the heaven and the firm-set mountains; for the giver you set down the Vasus (rich powers). The forests bend down in the fear of your onrush. You stir the Earth, O sons of Pr̥śni, when, mighty for the work of a luminous going, you yoke your dappled steeds.
धू॒नु॒थ । द्याम् । पर्व॑ताम् । दा॒शुषे॑ । वसु॑ । नि । वः॒ । वना॑ । जि॒ह॒ते॒ । याम॑नः । भि॒या । को॒पय॑थ । पृ॒थि॒वीम् । पृ॒श्नि॒ऽमा॒त॒रः॒ । शु॒भे । यत् । उ॒ग्राः॒ । पृष॑तीः । अयु॑ग्ध्वम् ॥धूनुथ । द्याम् । पर्वताम् । दाशुषे । वसु । नि । वः । वना । जिहते । यामनः । भिया । कोपयथ । पृथिवीम् । पृश्निमातरः । शुभे । यत् । उग्राः । पृषतीः । अयुग्ध्वम् ॥dhūnutha | dyām | parvatām | dāśuṣe | vasu | ni | vaḥ | vanā | jihate | yāmanaḥ | bhiyā | kopayatha | pṛthivīm | pṛśni-mātaraḥ | śubhe | yat | ugrāḥ | pṛṣatīḥ | ayugdhvam