Sukta 5.57
वाशीमन्त ऋष्टिमन्तो मनीषिणः सुधन्वान इषुमन्तो निषङ्गिणः । स्वश्वाः स्थ सुरथाः पृश्निमातरः स्वायुधा मरुतो याथना शुभम् ॥
वाशी॑मन्त ऋष्टि॒मन्तो॑ मनी॒षिण॑: सु॒धन्वा॑न॒ इषु॑मन्तो निष॒ङ्गिण॑: । स्वश्वा॑: स्थ सु॒रथा॑: पृश्निमातरः स्वायु॒धा म॑रुतो याथना॒ शुभ॑म् ॥
vāśī́manta ṛṣṭí-manto manīṣíṇaḥ su-dhánvāna íṣu-manto niṣaṅgíṇaḥ | sv-áśvāḥ stha su-ráthāḥ pṛ́śni-mātaraḥ sv-āyudhā maruto yāthanā́ śúbham ||
With axes, with spears—wise in thought; with good bows, with arrows, with quivers: you are well-horsed, well-charioted, O Maruts, children of Pṛśni. Armed with your own powers, move on toward auspiciousness and luminous good.
वाशी॑ऽमन्तः । ऋ॒ष्टि॒ऽमन्तः॑ । म॒नी॒षिणः॑ । सु॒ऽधन्वा॑नः । इषु॑ऽमन्तः । नि॒ष॒ङ्गिणः॑ । सु॒ऽअश्वाः॑ । स्थ॒ । सु॒ऽरथाः॑ । पृ॒श्नि॒ऽमा॒त॒रः॒ । सु॒ऽआ॒यु॒धाः । म॒रु॒तः॒ । या॒थ॒न॒ । शुभ॑म् ॥वाशीमन्तः । ऋष्टिमन्तः । मनीषिणः । सुधन्वानः । इषुमन्तः । निषङ्गिणः । सुअश्वाः । स्थ । सुरथाः । पृश्निमातरः । सुआयुधाः । मरुतः । याथन । शुभम् ॥vāśī-mantaḥ | ṛṣṭi-mantaḥ | manīṣiṇaḥ | su-dhanvānaḥ | iṣu-mantaḥ | niṣaṅgiṇaḥ | su-aśvāḥ | stha | su-rathāḥ | pṛśni-mātaraḥ | su-āyudhāḥ | marutaḥ | yāthana | śubham