Sukta 5.57
आ रुद्रास इन्द्रवन्तः सजोषसो हिरण्यरथाः सुविताय गन्तन । इयं वो अस्मत्प्रति हर्यते मतिस्तृष्णजे न दिव उत्सा उदन्यवे ॥
आ रु॑द्रास॒ इन्द्र॑वन्तः स॒जोष॑सो॒ हिर॑ण्यरथाः सुवि॒ताय॑ गन्तन । इ॒यं वो॑ अ॒स्मत्प्रति॑ हर्यते म॒तिस्तृ॒ष्णजे॒ न दि॒व उत्सा॑ उद॒न्यवे॑ ॥
ā́ rudrāsa índra-vantaḥ sajoṣaso híraṇya-rathāḥ suvitā́ya gantana | iyáṁ vo asmát-práti haryate matís tṛ́ṣṇaje ná divá utsā́ udanyáve ||
Come, O Rudra-sons, rich in Indra’s might, in one accord, on golden chariots, for our well-being. This our thought turns eagerly toward you—like springs from heaven toward the thirsty seeker of water.
आ । रु॒द्रा॒सः॒ । इन्द्र॑ऽवन्तः । स॒ऽजोष॑सः । हिर॑ण्यऽरथाः । सु॒वि॒ताय॑ । ग॒न्त॒न॒ । इ॒यम् । वः॒ । अ॒स्मत् । प्रति॑ । ह॒र्य॒ते॒ । म॒तिः । तृ॒ष्णऽजे॑ । न । दि॒वः । उत्साः॑ । उ॒द॒न्यवे॑ ॥आ । रुद्रासः । इन्द्रवन्तः । सजोषसः । हिरण्यरथाः । सुविताय । गन्तन । इयम् । वः । अस्मत् । प्रति । हर्यते । मतिः । तृष्णजे । न । दिवः । उत्साः । उदन्यवे ॥ā | rudrāsaḥ | indra-vantaḥ | sa-joṣasaḥ | hiraṇya-rathāḥ | suvitāya | gantana | iyam | vaḥ | asmat | prati | haryate | matiḥ | tṛṣṇa-je | na | divaḥ | utsāḥ | udanyave