Sukta 5.52
उत स्म ते परुष्ण्यामूर्णा वसत शुन्ध्यवः । उत पव्या रथानामद्रिं भिन्दन्त्योजसा ॥
उ॒त स्म॒ ते परु॑ष्ण्या॒मूर्णा॑ वसत शु॒न्ध्यव॑: । उ॒त प॒व्या रथा॑ना॒मद्रिं॑ भिन्द॒न्त्योज॑सा ॥
utá sma te páruṣṇyām ūrṇā́ vasata śundhyávaḥ | utá pávyā ráthānām ádrim bhindanty ójasā ||
And indeed, you pure ones dwell in the Paruṣṇī as woolly (cloud-like) coverings; and with the felly of your chariots you split the stone by your force.
उ॒त । स्म॒ । ते । परु॑ष्ण्याम् । ऊर्णाः॑ । व॒स॒त॒ । शु॒न्ध्यवः॑ । उ॒त । प॒व्या । रथा॑नाम् । अद्रि॑म् । भि॒न्द॒न्ति॒ । ओज॑सा ॥उत । स्म । ते । परुष्ण्याम् । ऊर्णाः । वसत । शुन्ध्यवः । उत । पव्या । रथानाम् । अद्रिम् । भिन्दन्ति । ओजसा ॥uta | sma | te | paruṣṇyām | ūrṇāḥ | vasata | śundhyavaḥ | uta | pavyā | rathānām | adrim | bhindanti | ojasā