Sukta 5.52
आपथयो विपथयोऽन्तस्पथा अनुपथाः । एतेभिर्मह्यं नामभिर्यज्ञं विष्टार ओहते ॥
आप॑थयो॒ विप॑थ॒योऽन्त॑स्पथा॒ अनु॑पथाः । ए॒तेभि॒र्मह्यं॒ नाम॑भिर्य॒ज्ञं वि॑ष्टा॒र ओ॑हते ॥
ā́pathayo vípathayo ’ntáspatḥā ánupathāḥ | etébhir máhyaṃ nā́mabhir yajñáṃ vi-stā́ra óhate ||
Path-makers and path-breakers, those of inner paths and following paths—by these names the wide Expander draws out for me the sacrifice.
आप॑थयः । विऽप॑थयः । अन्तः॑ऽपथाः । अनु॑ऽपथाः । ए॒तेभिः । मह्य॑म् । नाम॑ऽभिः । य॒ज्ञम् । वि॒ऽस्ता॒रः । ओ॒ह॒ते॒ ॥आपथयः । विपथयः । अन्तःपथाः । अनुपथाः । एतेभिः । मह्यम् । नामभिः । यज्ञम् । विस्तारः । ओहते ॥āpathayaḥ | vi-pathayaḥ | antaḥ-pathāḥ | anu-pathāḥ | etebhiḥ | mahyam | nāma-bhiḥ | yajñam | vi-stāraḥ | ohate