Sukta 5.52
आ रुक्मैरा युधा नर ऋष्वा ऋष्टीरसृक्षत । अन्वेनाँ अह विद्युतो मरुतो जज्झतीरिव भानुरर्त त्मना दिवः ॥
आ रु॒क्मैरा यु॒धा नर॑ ऋ॒ष्वा ऋ॒ष्टीर॑सृक्षत । अन्वे॑नाँ॒ अह॑ वि॒द्युतो॑ म॒रुतो॒ जज्झ॑तीरिव भा॒नुर॑र्त॒ त्मना॑ दि॒वः ॥
ā́ rukmáir ā́ yúdhā nára ṛ́ṣvā ṛ́ṣṭīr asṛkṣata | ánv enā́n áha ví-dyuto marúto jajjhatī́r-iva bhā́nur arta tmánā diváḥ ||
With gold-bright splendours, with weapons, the heroes have loosed their towering spears; after them indeed the lightnings follow—like crackling flames—the radiance of heaven moves by its own power.
आ । रु॒क्मैः । आ । यु॒धा । नरः॑ । ऋ॒ष्वाः । ऋ॒ष्टीः । अ॒सृ॒क्ष॒त॒ । अनु॑ । ए॒ना॒न् । अह॑ । वि॒ऽद्युतः॑ । म॒रुतः॑ । जज्झ॑तीःऽइव । भा॒नुः । अ॒र्त॒ । त्मना॑ । दि॒वः ॥आ । रुक्मैः । आ । युधा । नरः । ऋष्वाः । ऋष्टीः । असृक्षत । अनु । एनान् । अह । विद्युतः । मरुतः । जज्झतीःइव । भानुः । अर्त । त्मना । दिवः ॥ā | rukmaiḥ | ā | yudhā | naraḥ | ṛṣvāḥ | ṛṣṭīḥ | asṛkṣata | anu | enān | aha | vi-dyutaḥ | marutaḥ | jajjhatīḥ-iva | bhānuḥ | arta | tmanā | divaḥ