Sukta 5.52
अर्हन्तो ये सुदानवो नरो असामिशवसः । प्र यज्ञं यज्ञियेभ्यो दिवो अर्चा मरुद्भ्यः ॥
अर्ह॑न्तो॒ ये सु॒दान॑वो॒ नरो॒ असा॑मिशवसः । प्र य॒ज्ञं य॒ज्ञिये॑भ्यो दि॒वो अ॑र्चा म॒रुद्भ्य॑: ॥
árhanto ye sudā́navo náro asā́mi-śavasaḥ | prá yajñáṃ yajñíyebhyo divó arcā marúdbhyaḥ ||
Worthy are those generous heroes, of unmingled strength; bring forward the sacrifice for the sacrifice-worthy—sing out from the luminous height to the Maruts.
अर्ह॑न्तः । ये । सु॒ऽदान॑वः । नरः॑ । असा॑मिऽशवसः । प्र । य॒ज्ञम् । य॒ज्ञिये॑भ्यः । दि॒वः । अ॒र्च॒ । म॒रुत्ऽभ्यः॑ ॥अर्हन्तः । ये । सुदानवः । नरः । असामिशवसः । प्र । यज्ञम् । यज्ञियेभ्यः । दिवः । अर्च । मरुत्भ्यः ॥arhantaḥ | ye | su-dānavaḥ | naraḥ | asāmi-śavasaḥ | pra | yajñam | yajñiyebhyaḥ | divaḥ | arca | marut-bhyaḥ