Sukta 5.52
मरुत्सु वो दधीमहि स्तोमं यज्ञं च धृष्णुया । विश्वे ये मानुषा युगा पान्ति मर्त्यं रिषः ॥
म॒रुत्सु॑ वो दधीमहि॒ स्तोमं॑ य॒ज्ञं च॑ धृष्णु॒या । विश्वे॒ ये मानु॑षा यु॒गा पान्ति॒ मर्त्यं॑ रि॒षः ॥
marútsu vo dadhīmahi stómaṃ yajñáṃ ca dhṛ́ṣṇu-yā́ | víśve ye mā́nuṣā yugā́ pā́nti mártyaṃ ríṣaḥ ||
Among the Maruts we set for you our hymn and our sacrifice with daring force—those who through all human ages guard the mortal from harm.
म॒रुत्ऽसु॑ । वः॒ । द॒धी॒म॒हि॒ । स्तोम॑म् । य॒ज्ञम् । च॒ । धृ॒ष्णु॒ऽया । विश्वे॑ । ये । मानु॑षा । यु॒गा । पान्ति॑ । मर्त्य॑म् । रि॒षः ॥मरुत्सु । वः । दधीमहि । स्तोमम् । यज्ञम् । च । धृष्णुया । विश्वे । ये । मानुषा । युगा । पान्ति । मर्त्यम् । रिषः ॥marut-su | vaḥ | dadhīmahi | stomam | yajñam | ca | dhṛṣṇu-yā | viśve | ye | mānuṣā | yugā | pānti | martyam | riṣaḥ