Sukta 5.52
ते स्यन्द्रासो नोक्षणोऽति ष्कन्दन्ति शर्वरीः । मरुतामधा महो दिवि क्षमा च मन्महे ॥
ते स्य॒न्द्रासो॒ नोक्षणोऽति॑ ष्कन्दन्ति॒ शर्व॑रीः । म॒रुता॒मधा॒ महो॑ दि॒वि क्ष॒मा च॑ मन्महे ॥
te syandrā́so nókṣaṇo ’tí skandanti śárvarīḥ | marútām ádhā máho diví kṣamā́ ca manmahe ||
They—vibrant, impelling—leap beyond the nights like strong bulls; then we hold in our thought the Maruts’ vast greatness, in the heaven above and in the earth below.
ते । स्प॒न्द्रासः॑ । न । उ॒क्षणः॑ । अति॑ । स्क॒न्द॒न्ति॒ । शर्व॑रीः । म॒रुता॑म् । अध॑ । महः॑ । दि॒वि । क्ष॒मा । च॒ । म॒न्म॒हे॒ ॥ते । स्पन्द्रासः । न । उक्षणः । अति । स्कन्दन्ति । शर्वरीः । मरुताम् । अध । महः । दिवि । क्षमा । च । मन्महे ॥te | spandrāsaḥ | na | ukṣaṇaḥ | ati | skandanti | śarvarīḥ | marutām | adha | mahaḥ | divi | kṣamā | ca | manmahe