Sukta 5.52
ते हि स्थिरस्य शवसः सखायः सन्ति धृष्णुया । ते यामन्ना धृषद्विनस्त्मना पान्ति शश्वतः ॥
ते हि स्थि॒रस्य॒ शव॑स॒: सखा॑य॒: सन्ति॑ धृष्णु॒या । ते याम॒न्ना धृ॑ष॒द्विन॒स्त्मना॑ पान्ति॒ शश्व॑तः ॥
té hí sthirásya śávasas sakhā́yaḥ sánti dhṛ́ṣṇu-yā́ | té yā́mann ā́ dhṛṣádvinas tmánā pā́nti śáśvataḥ ||
For they are comrades of stable strength, companions in bold force; in the journey they, the impetuous, protect by their own being always—so the Marut energies guard the upward movement with an enduring, self-sustained might.
ते । हि । स्थि॒रस्य॑ । शव॑सः । सखा॑यः । सन्ति॑ । धृ॒ष्णु॒ऽया । ते । याम॑न् । आ । धृ॒ष॒त्ऽविनः॑ । त्मना॑ । पा॒न्ति॒ । शश्व॑तः ॥ते । हि । स्थिरस्य । शवसः । सखायः । सन्ति । धृष्णुया । ते । यामन् । आ । धृषत्विनः । त्मना । पान्ति । शश्वतः ॥te | hi | sthirasya | śavasaḥ | sakhāyaḥ | santi | dhṛṣṇu-yā | te | yāman | ā | dhṛṣat-vinaḥ | tmanā | pānti | śaśvataḥ