Sukta 5.52
प्र ये मे बन्ध्वेषे गां वोचन्त सूरयः पृश्निं वोचन्त मातरम् । अधा पितरमिष्मिणं रुद्रं वोचन्त शिक्वसः ॥
प्र ये मे॑ बन्ध्वे॒षे गां वोच॑न्त सू॒रय॒: पृश्निं॑ वोचन्त मा॒तर॑म् । अधा॑ पि॒तर॑मि॒ष्मिणं॑ रु॒द्रं वो॑चन्त॒ शिक्व॑सः ॥
prá yé me bandhv-eṣé gā́m vócanta sūráyaḥ pṛ́śnim vócanta mātáram | ádhā pitáram iṣmíṇaṁ rudráṁ vócanta śíkvasāḥ ||
Forward they declare to me—those who seek kinship in the Truth—‘the Cow’, they proclaim; they proclaim Pṛśni as the Mother. Then they proclaim the Father, the impelling Rudra, the mighty ones of inspired speech.
प्र । ये । मे॒ । ब॒न्धु॒ऽए॒षे । गाम् । वोच॑न्त । सू॒रयः॑ । पृश्नि॑म् । वो॒च॒न्त॒ । मा॒तर॑म् । अध॑ । पि॒तर॑म् । इ॒ष्मिण॑म् । रु॒द्रम् । वो॒च॒न्त॒ । शिक्व॑सः ॥प्र । ये । मे । बन्धुएषे । गाम् । वोचन्त । सूरयः । पृश्निम् । वोचन्त । मातरम् । अध । पितरम् । इष्मिणम् । रुद्रम् । वोचन्त । शिक्वसः ॥pra | ye | me | bandhu-eṣe | gām | vocanta | sūrayaḥ | pṛśnim | vocanta | mātaram | adha | pitaram | iṣmiṇam | rudram | vocanta | śikvasaḥ