Sukta 5.52
अच्छ ऋषे मारुतं गणं दाना मित्रं न योषणा । दिवो वा धृष्णव ओजसा स्तुता धीभिरिषण्यत ॥
अच्छ॑ ऋषे॒ मारु॑तं ग॒णं दा॒ना मि॒त्रं न यो॒षणा॑ । दि॒वो वा॑ धृष्णव॒ ओज॑सा स्तु॒ता धी॒भिरि॑षण्यत ॥
áccha ṛṣe mārútam gáṇaṃ dānā́ mítraṃ ná yóṣaṇā | divó vā dhṛṣṇava ójasā stutā́ dhī́bhir iṣaṇyata ||
Come, O seer, to the Marut-host—givers, like a friendly ally, like a beloved; whether from heaven, bold by their force, when praised with inspired thoughts they press us onward.
अच्छ॑ । ऋ॒षे॒ । मारु॑तम् । ग॒णम् । दा॒ना । मि॒त्रम् । न । यो॒षणा॑ । दि॒वः । वा॒ । धृ॒ष्ण॒वः॒ । ओज॑सा । स्तु॒ताः । धी॒भिः । इ॒ष॒ण्य॒त॒ ॥अच्छ । ऋषे । मारुतम् । गणम् । दाना । मित्रम् । न । योषणा । दिवः । वा । धृष्णवः । ओजसा । स्तुताः । धीभिः । इषण्यत ॥accha | ṛṣe | mārutam | gaṇam | dānā | mitram | na | yoṣaṇā | divaḥ | vā | dhṛṣṇavaḥ | ojasā | stutāḥ | dhībhiḥ | iṣaṇyata