Sukta 5.52
य ऋष्वा ऋष्टिविद्युतः कवयः सन्ति वेधसः । तमृषे मारुतं गणं नमस्या रमया गिरा ॥
य ऋ॒ष्वा ऋ॒ष्टिवि॑द्युतः क॒वय॒: सन्ति॑ वे॒धस॑: । तमृ॑षे॒ मारु॑तं ग॒णं न॑म॒स्या र॒मया॑ गि॒रा ॥
ya ṛ́ṣvā ṛ́ṣṭi-vidyutaḥ kaváyaḥ sánti védhasaḥ | tám ṛṣe mārútam gáṇaṃ namasyā́ ramáyā girā́ ||
Those who are lofty, spear-flashing, seers and wise ordainers—O seer, that Marut-host do homage to, and delight them with a glad word.
यः । ऋ॒ष्वाः । ऋ॒ष्टिऽवि॑द्युतः । क॒वयः॑ । सन्ति॑ । वे॒धसः॑ । तम् । ऋ॒षे॒ । मारु॑तम् । ग॒णम् । न॒म॒स्य । र॒मय॑ । गि॒रा ॥यः । ऋष्वाः । ऋष्टिविद्युतः । कवयः । सन्ति । वेधसः । तम् । ऋषे । मारुतम् । गणम् । नमस्य । रमय । गिरा ॥yaḥ | ṛṣvāḥ | ṛṣṭi-vidyutaḥ | kavayaḥ | santi | vedhasaḥ | tam | ṛṣe | mārutam | gaṇam | namasya | ramaya | girā