Sukta 5.52
अधा नरो न्योहतेऽधा नियुत ओहते । अधा पारावता इति चित्रा रूपाणि दर्श्या ॥
अधा॒ नरो॒ न्यो॑ह॒तेऽधा॑ नि॒युत॑ ओहते । अधा॒ पारा॑वता॒ इति॑ चि॒त्रा रू॒पाणि॒ दर्श्या॑ ॥
adhā́ náro ny-óhate ’dhā́ ni-yúta óhate | adhā́ pārā́vatā íti citrā́ rūpā́ṇi dárśyā ||
Then the heroes draw near; then they draw near with their yoked powers; then (they appear) as if ‘from far away’—their varied forms become visible.
अध॑ । नरः॑ । नि । ओ॒ह॒ते॒ । अध॑ । नि॒ऽयुतः॑ । ओ॒ह॒ते॒ । अध॑ । पारा॑वताः । इति॑ । चि॒त्रा । रू॒पाणि॑ । दर्श्या॑ ॥अध । नरः । नि । ओहते । अध । नियुतः । ओहते । अध । पारावताः । इति । चित्रा । रूपाणि । दर्श्या ॥adha | naraḥ | ni | ohate | adha | ni-yutaḥ | ohate | adha | pārāvatāḥ | iti | citrā | rūpāṇi | darśyā