Sukta 5.51
सजूर्विश्वेभिर्देवेभिरश्विभ्यामुषसा सजूः । आ याह्यग्ने अत्रिवत्सुते रण ॥
स॒जूर्विश्वे॑भिर्दे॒वेभि॑र॒श्विभ्या॑मु॒षसा॑ स॒जूः । आ या॑ह्यग्ने अत्रि॒वत्सु॒ते र॑ण ॥
sajū́r víśvebhir devébhir aśvíbhyām uṣásā sajū́ḥ | ā́ yāhy agne atrivát suté ráṇa ||
In one joined movement with all the gods, with the Aśvins and with Dawn, come here, O Agni, as in the Atri-way; in the pressed Soma, take thy joy—enter the offering as the divine Will that gathers all powers into a single harmony.
स॒ऽजूः । विश्वे॑भिः । दे॒वेभिः॑ । अ॒श्विऽभ्या॑म् । उ॒षसा॑ । स॒ऽजूः । आ । या॒हि॒ । अ॒ग्ने॒ । अ॒त्रि॒ऽवत् । सु॒ते । रण॒ ॥सजूः । विश्वेभिः । देवेभिः । अश्विभ्याम् । उषसा । सजूः । आ । याहि । अग्ने । अत्रिवत् । सुते । रण ॥sa-jūḥ | viśvebhiḥ | devebhiḥ | aśvi-bhyām | uṣasā | sa-jūḥ | ā | yāhi | agne | atri-vat | sute | raṇa