Sukta 5.51
सुता इन्द्राय वायवे सोमासो दध्याशिरः । निम्नं न यन्ति सिन्धवोऽभि प्रयः ॥
सु॒ता इन्द्रा॑य वा॒यवे॒ सोमा॑सो॒ दध्या॑शिरः । नि॒म्नं न य॑न्ति॒ सिन्ध॑वो॒ऽभि प्रय॑: ॥
sutā́ indrā́ya vāyáve sómāso dádhyāśiraḥ | nímnaṃ ná yánti síndhavo ’bhí práyaḥ ||
The pressed Soma-forces, mixed with the clarifying power (curd), are offered for Indra and Vāyu; they move toward the delight (prayaḥ) as rivers hasten to the deep—so the currents of inner offering run naturally into the vast receptacle of bliss.
सु॒ताः । इन्द्रा॑य । वा॒यवे॑ । सोमा॑सः । दधि॑ऽआशिरः । नि॒म्नम् । न । य॒न्ति॒ । सिन्ध॑वः । अ॒भि । प्रयः॑ ॥सुताः । इन्द्राय । वायवे । सोमासः । दधिआशिरः । निम्नम् । न । यन्ति । सिन्धवः । अभि । प्रयः ॥sutāḥ | indrāya | vāyave | somāsaḥ | dadhi-āśiraḥ | nimnam | na | yanti | sindhavaḥ | abhi | prayaḥ