Sukta 5.51
इन्द्रश्च वायवेषां सुतानां पीतिमर्हथः । ताञ्जुषेथामरेपसावभि प्रयः ॥
इन्द्र॑श्च वायवेषां सु॒तानां॑ पी॒तिम॑र्हथः । ताञ्जु॑षेथामरे॒पसा॑व॒भि प्रय॑: ॥
índraś ca vāyav eṣā́ṁ sutā́nāṁ pītím arhathaḥ | tā́n juṣethām arepásāv abhí práyaḥ ||
Indra and Vāyu, you are worthy of the drinking of these pressed Soma-essences. Take delight in them, you two without blemish, and enter into the offering-force set before you.
इन्द्रः॑ । च॒ । वा॒यो॒ इति॑ । ए॒षा॒म् । सु॒ताना॑म् । पी॒तिम् । अ॒र्ह॒थः॒ । तान् । जु॒षे॒था॒म् । अ॒रे॒पसौ । अ॒भि । प्रयः॑ ॥इन्द्रः । च । वायो इति । एषाम् । सुतानाम् । पीतिम् । अर्हथः । तान् । जुषेथाम् । अरेपसौ । अभि । प्रयः ॥indraḥ | ca | vāyo iti | eṣām | sutānām | pītim | arhathaḥ | tān | juṣethām | arepasau | abhi | prayaḥ